|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.109. अध्यायः 109
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सत्यानृतविवेचनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-109-0x(5626)(69018)
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत।
तत्त्वं जिज्ञासमानाय प्रब्रूहि भरतर्षभ॥ 12-109-1(69019)
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः।
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः॥ 12-109-2(69020)
किंस्वित्सत्यं किमनृतं किंस्विद्धर्म्यं सनातनम्।
कस्मिन्काले वदेत्सत्यं कस्मिन्वाऽप्यनृतं वदेत्॥ 12-109-3(69021)
भीष्म उवाच। 12-109-4x(5627)
सत्यस्य वचनं साधु न सत्याद्विद्यते परम्।
यत्तु लोके सुदुर्ज्ञेयं तत्ते वक्ष्यामि भारत॥ 12-109-4(69022)
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्।
यत्रानृतं भवेत्सत्यं सत्यं वाऽप्यनृतं भवेत्॥ 12-109-5(69023)
तादृशो वर्धते पापो यत्र सत्यमनिश्चितम्।
सत्यानृते विनिश्चित्य ततो भवति धर्मवि॥ 12-109-6(69024)
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽप्यतिदारुणः।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव॥ 12-109-7(69025)
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्।
सुमहत्प्राप्नुयात्पुण्यं गङ्गायामिव कौशिकः॥ 12-109-8(69026)
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्विदः।
दुष्कारं चापि संख्यातुं तर्केणात्र व्यवस्यति॥ 12-109-9(69027)
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्।
यः स्यात्प्रभवसंयुक्तः स धर्म इति निश्चयः॥ 12-109-10(69028)
`अहिंसा सत्यमक्रोधस्तपो दानं दमो मतिः।
अनसूयाऽप्यसामर्थ्यमनीर्ष्या शीलमेव च॥ 12-109-11(69029)
एष धर्मः कुरुश्रेष्ठ कथितं परमेष्ठिना।
ब्रह्मणा देवदेवेन अयं चैव सनातनः॥ 12-109-12(69030)
अस्मिन्धर्मे स्थितो राजन्नरो भद्राणि पश्यति।
श्रौतो वधात्मको धर्म अहिंसापरमार्थिकः॥' 12-109-13(69031)
धारणाद्धर्ममित्याहुर्धर्मेण विधृताः प्रजाः।
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चः॥ 12-109-14(69032)
अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम्।
यः स्यादहिंसासंयुक्तः स धर्म इति निश्चयः॥ 12-109-15(69033)
श्रुतिं धर्मं वदन्त्यन्ये मानान्याहुः परे जनाः।
न च तं स्वभ्यसूयामो न हि सर्वं विधीयते॥ 12-109-16(69034)
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित्।
तेभ्यस्तु न तदाख्येयं स धर्म इति निश्चयः॥ 12-109-17(69035)
अकूजनेन चेन्मोक्षो नावकूजेत्कथंचन।
अवश्यं कूजितव्यं वा शङ्केरन्वाऽप्यकूजनात्॥ 12-109-18(69036)
`येऽन्ये वाऽप्यनृतं कुर्युः कुर्यादेव विचारणम्।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्॥ 12-109-19(69037)
अक्षयाद्यो वधं राजन्कुर्यादेवाविचारयन्।
अबुध्वाऽनुशये दोषं श्रेयस्तच्चानृतं भवेत्॥ 12-109-20(69038)
न स्तेनः सह संबन्धान्मुच्यते शपथादपि।'
श्रेयस्तत्रानृतं वक्तुं सत्यादिति हि धारणा॥ 12-109-21(69039)
यः पापैः सह संबन्धान्मुच्यते शपथादपि।
न च तेभ्यो धनं दद्याच्छक्ये सति कथंचन।
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्॥ 12-109-22(69040)
स्वशरीरोपरोधेन धनमादातुमिच्छतः।
सत्यसंप्रतिपत्त्यर्थं यद्ब्रूयुः साक्षिणः क्वचित्।
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः॥ 12-109-23(69041)
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्।
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्॥ 12-109-24(69042)
परेषां सिद्धिमाकाङ्क्षन्न च स्याद्धर्मभिक्षुकः।
प्रतिश्रुत्य न दातव्यं श्वः कार्यस्तु बलात्कृतः॥ 12-109-25(69043)
यः कश्चिद्धर्मसमयात्प्रच्युतो धर्मजीवनः।
दण्डेनैव स हन्तव्यस्तं पन्थानं समाश्रितः॥ 12-109-26(69044)
च्युतः सदैव धर्मेभ्यो धनवान्धर्ममाश्रितः।
कथं स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्॥ 12-109-27(69045)
सर्वोपायैर्नियन्तव्यः पापो निकृतिजीवनः।
धनमित्येव पापानां सर्वेषामिह निश्चयः॥ 12-109-28(69046)
अविवाह्या ह्यसंभोज्या निकृत्या निरयं गताः।
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते।
[निर्यज्ञास्तपसा हीना मा स्म तैः सह संगमः॥] 12-109-29(69047)
धनादानाद्दुःखतरं जीविता धिक्प्रयोजनम्।
इदं ते रोचतां धर्म इति वाच्यं प्रयत्नतः॥ 12-109-30(69048)
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः।
तथाविधं च यो हन्यान्न स पापेन लिप्यते॥ 12-109-31(69049)
स्वकर्मणा हतं हन्ति हत एव स हन्यते।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु॥ 12-109-32(69050)
यथा काकास्तथैव श्वा तथैवोपधिजीवनः।
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु॥ 12-109-33(69051)
यस्मिन्यथा वर्तति यो मनुष्य
स्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारो मायया बाधितव्यः
साध्वाचारः साधुनैवाभ्युपेयः॥ ॥ 12-109-34(69052)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि नवाधिकशततमोऽध्यायः॥ 109॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-109-6 तादृशः सत्यानृतयोस्तत्त्वमजानन्। तादृशो बध्यते बाल इति झ. पाठः॥ 12-109-7 अन्धस्य घ्नाणचक्षुषः सर्वप्राणिवधायोद्यतस्य वधादूलाको व्याधो हिंस्रस्वभावोऽपि स्वर्गं जगामेति कर्णपर्वकथानुसंधेया॥ 12-109-8 मूढः कर्णपर्वोक्तः सत्यवादीचोरेभ्यः सत्यवचनाभिमानित्वान्मार्गमुपदिश्य कार्पटिकान्घातितवान्। असौ धर्मविन्नेत्यर्थः। कौशिक उलूको गङ्गातीरे सहस्रशः सर्पिण्या स्थापितान्यण्डानि भित्त्वा महत्पुण्यं प्राप। तदभेदने तु तीक्ष्णविवाणां सर्पाणां वृभ्द्या सद्यो लोकनाशसंभवेत्। सुमहत्प्राप्नुयात्पापं इति ड. थ. द. पाठः॥ 12-109-9 अत्र धगलक्षणे। व्यवस्यति निश्चिनोति॥ 12-109-10 प्रभवेऽभ्युदयः॥ 12-109-16 श्रुत्युक्तोऽर्थः सर्वो धर्म इत्यपि न। श्येनादेर्धर्मत्वाभावात् सर्वंश्येनाद्यति नहि विधीयते धर्मत्वेन न चोद्यते॥ 12-109-17 धनमिच्छन्ति कस्यचि ति झ. पाठः॥ 12-109-21 वोरेषु धनिकं पृच्छत्सु न वदेत्। वदतो मोक्षाभावे न वेझीति शपथपूर्वकमपि वदेत्। तादृशस्थलेऽनृते दोषो नास्तीत्यर्थः॥ 12-109-22 तेभ्यः स्तेनेभ्यः॥ 12-109-29 मा संगमः सङ्गं मा कार्षीः॥ 12-109-32 समयं एतान्हनिध्यामीति व्रतं यश्चिकीर्षेत् स कुर्वीत्। तादृशानां वधे पुण्यमस्तीति भावः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|